|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.353. अध्यायः 353
Mahabharata - Shanti Parva - Chapter Topics
श्वेतद्वीपाद्धदर्याश्रममुपागतस्य नारदस्य श्रीनारायणेन संवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
शौनक उवाच। 12-353-0x(6615)(80103)
सौते सुमहदाख्यानं भवता परिकीर्तितम्।
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः॥ 12-353-1(80104)
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्।
न तथा फलदं सौते नारायणकथा यथा॥ 12-353-2(80105)
पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम्।
नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम्॥ 12-353-3(80106)
दुर्दर्शो भगवान्देवः सर्वलोकनमस्कृतः।
सब्रह्मकैः सुरैः कृत्स्नैरन्यैश्चैव महर्षिभिः॥ 12-353-4(80107)
दृष्टवान्नारदो यत्तु देवं नारायणं हरिम्।
नूनमेनद्ध्यनुमतं तस्य देवस्य सूतज॥ 12-353-5(80108)
यदृष्टवाञ्जगन्नाथमनिरुद्दतनौ स्थितम्।
यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ।
नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे॥ 12-353-6(80109)
सौतिरुवाच। 12-353-7x(6616)
तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै।
कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक॥ 12-353-7(80110)
कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम्।
परिपप्रच्छ राजेन्द्रः पितामहपितामहम्॥ 12-353-8(80111)
जनमेजय उवाच। 12-353-9x(6617)
श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा।
ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम्॥ 12-353-9(80112)
बदर्याश्रममागम्य समागम्य च तावृषी।
कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः॥ 12-353-10(80113)
इदं शतसहस्राद्धि भारताख्यानविस्तरात्।
आमन्थ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम्॥ 12-353-11(80114)
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा।
अरण्यकं च वेदेभ्य ओषधीभ्योऽमृतं यथा।
समुद्धृतमिदं ब्रह्मन्कथामृतमिदं तथा॥ 12-353-12(80115)
तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम्।
स ईशो भगवान्देवः सर्वभूतात्मभावनः॥ 12-353-13(80116)
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम।
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः॥ 12-353-14(80117)
ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम्।
न ततोऽस्ति परं मन्ये पावतं दिवि चेह च॥ 12-353-15(80118)
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्।
न तथा फलदं चापि नारायणकथा यथा॥ 12-353-16(80119)
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम्।
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम्॥ 12-353-17(80120)
न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः।
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम्॥ 12-353-18(80121)
न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु।
त्रैलोक्यनाथो विष्णुः स यथाऽसीत्साह्यकृत्सखा॥ 12-353-19(80122)
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वजाः।
हिताय श्रेयसे चैव येषामासीज्जनार्दनः॥ 12-353-20(80123)
तपसाऽप्यथ दुर्दर्शो भगवाँल्लोकपूजितः।
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम्॥ 12-353-21(80124)
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः।
`दृष्टवान्यो हरिं देवं नारायणमजं विभुम्॥' 12-353-22(80125)
न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम्।
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः॥ 12-353-23(80126)
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम्।
यद्दृष्टवांस्तदा देवमनिरूद्धतनौ स्थितम्॥ 12-353-24(80127)
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः।
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने॥ 12-353-25(80128)
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः।
बदरीमाश्रमं प्राप्य समागम्य च तावृषी।
कियन्तं कालमवसत्प्रश्नान्कान्पृष्टवांश्च ह॥ 12-353-26(80129)
श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि।
किमब्रूतां महात्मानौ नरनारायणावृषी।
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि॥ 12-353-27(80130)
`सौतिरुवाच। 12-353-28x(6618)
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा।
शशास शिष्यमासीनं वैशम्पायनमन्तिके।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥ 12-353-28(80131)
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा।
आचचक्षे ततः सर्वमितिहासं पुरातनम्॥' 12-353-29(80132)
वैशम्पायन उवाच। 12-353-30x(6619)
नमो भगवते तस्मै व्यासायामिततेजसे।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्॥ 12-353-30(80133)
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम्।
निवृत्तो नारदो राजस्तरसा मेरुमागमत्।
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना॥ 12-353-31(80134)
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत्।
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः॥ 12-353-32(80135)
मेरोः प्रचक्राम ततः पर्वतं गन्धमादनम्।
निपपात च खात्तूर्णं विशालां बदरीमनु॥ 12-353-33(80136)
ततः स ददृशे देवौ पुराणावृषिसत्तमौ।
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ॥ 12-353-34(80137)
तेजसाऽभ्यधिकौ सूर्यात्सर्वलोकविरोचनात्।
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ॥ 12-353-35(80138)
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ।
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ॥ 12-353-36(80139)
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ।
स्वास्यौ पृथुललाटौ च सुभ्रूसुहनुनासिकौ।
आतपत्रेण सदृशे शिरसी देवयोस्तयोः॥ 12-353-37(80140)
एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ।
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः॥ 12-353-38(80141)
स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तथा।
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ॥ 12-353-39(80142)
सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः।
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ॥ 12-353-40(80143)
इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणाम्।
स चोपविविशे तत्र पीठे कुशमये शुभे॥ 12-353-41(80144)
ततस्तौ तपसां वासौ यशसां तेजसामपि।
ऋषी शमदमोपेतौ कृत्वा पौर्वाह्णिकं विधिम्॥ 12-353-42(80145)
यश्चान्नारदमव्यग्रौ पाद्यार्ध्याभ्यामथार्चतः।
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृपौ॥ 12-353-43(80146)
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत।
भ्राज्याहुतिमहाञ्वालैर्यज्ञवाटो यथाऽग्निभिः॥ 12-353-44(80147)
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत्।
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम्॥ 12-353-45(80148)
अपीदानीं स भगवान्परमात्मा सनातनः।
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा॥ 12-353-46(80149)
नारद उवाच। 12-353-47x(6620)
दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः।
सर्वे लोका हि तत्रस्थास्तथा देवाः सहर्षिभिः॥ 12-353-47(80150)
अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ॥ 12-353-48(80151)
यैर्लक्षणैरुपेतः स हरिरव्यरक्तरूपधृत्।
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्॥ 12-353-49(80152)
दृष्टौ युवां मया तत्र तस्य देवस्य पार्श्वतः।
इहैव चागतोऽस्म्यद्य विसृष्टः परमात्मना॥ 12-353-50(80153)
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया।
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम्॥ 12-353-51(80154)
तेन मे कथितः कृत्स्नो धर्मः क्षेत्रज्ञसंज्ञितः।
प्रादुर्भावाश्च कथिता भविष्या इह ये यथा॥ 12-353-52(80155)
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः।
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम्॥ 12-353-53(80156)
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः।
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः॥ 12-353-54(80157)
रमते सोऽर्च्यमानो हि सदा भागवतप्रियः।
विश्वभुक्सर्वगो देवो माधवो भक्तवत्सलः॥ 12-353-55(80158)
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः।
हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः॥ 12-353-56(80159)
तपसा योज्य सोत्मानं श्वेतद्वीपात्परं हि यत्।
तेज इत्यभिविख्यातं स्वयं भासावभासितम्॥ 12-353-57(80160)
शान्तिः सा त्रिषु लोकेषु विहिता भावितात्मना।
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः॥ 12-353-58(80161)
न तत्र सूर्यस्तपति न सोमोऽभिविराजते।
न वायुर्वाति देवेशे तपश्चरति दुश्चरम्॥ 12-353-59(80162)
वेदीमष्टनलोत्सेधां भूमावास्थाय विश्वकृत्।
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्भुखः॥ 12-353-60(80163)
साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम्।
यद्ब्रह्म ऋषयश्चैव स्वयं पशुपतिश्च यत्॥ 12-353-61(80164)
शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः।
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्पयश्च ते॥ 12-353-62(80165)
हव्यं कव्यं च सततं विधियुक्तं प्रयुञ्जते।
कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठतः॥ 12-353-63(80166)
याः क्रियाः संप्रयुक्ताश्च एकान्तगतबुद्धिभिः।
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयं॥ 12-353-64(80167)
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः।
विद्यते त्रिषु लोकेषु ततोऽस्यैकान्तिकं गतः॥ 12-353-65(80168)
इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना।
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः॥ 12-353-66(80169)
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः॥ ॥ 12-353-67(80170)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये त्रिपञ्चाशदधिकत्रिशततमोऽध्यायः॥ 353॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-353-18 केशवेनाभिसंगुप्तः प्राप्तवानाहये जयमिति ट. ध. पाठः॥ 12-353-26 काः कथाः पृष्टवांश्च स इति ध. पाठः॥ 12-353-31 हृदयेनोद्वहन्भावमिति ध. पाठः॥ 12-353-36 जालपादा हंसास्तदङ्कितभुजौ हंसपादाङ्कितभुजौ। चक्रलक्षणौ चक्राङ्कितपादौ। जानुपातभुजान्ताविति ट. पाठः। रक्तपादभुजान्ताविति ध. पाठः॥ 12-353-40 समागतौ हि तत्रैतौ सर्वभूतनमस्कृतौ। श्वेतद्वीपे मया दृष्टौ तादृशाविह सत्तमाविति थ. ध. पाठः॥ 12-353-57 श्वेत इत्यभिविख्यातमिति ध. पाठः॥ 12-353-58 लोकेषु सिद्धानभावितात्मनामिति च. ध. पाठः॥ 12-353-60 नलवत्पर्वयुकत्त्वान्नलशब्देनाङ्गुलं ग्राह्मम्॥ 12-353-64 एकान्तगतबुद्धिरव्यभिचरितबुद्धिभिः॥ 12-353-65 ततोस्म्येकान्तितां गत इति थ. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|